विभक्तयः
- വിവരങ്ങൾ
- COM_CONTENT_PUBLISHED_DATE_ON
शब्दाःअथवा 'पदं' सुबन्तं तथा तिङन्तमिति च द्विधा विभक्तमिति पूर्वम् उक्तं खलु । सु , औ , जस् इत्यादीन् एकविंशति प्रत्ययान् प्रातिपदिकेन (मूलपदेन सह) योजयित्वा यानि नामपादानि निष्पाद्यन्ते तान्येव सुबन्तानि इति कथ्यन्ते । सामान्यतः एकस्य शब्दस्य विविधानि रूपाणि सन्दर्भानुसारं प्रयुज्यन्ते । तान्येव विभक्तिरूपणीति व्यवह्रियन्ते । क्रियासम्बन्धं दर्शयितुमेव नामपदानां रूपभेदः सम्भवति इति सामान्येन वक्तुं शक्यते ।
यथा - रामः वदति । अध्यापकः रामं वदति । अत्र द्वयोः वाक्ययोः 'राम' शब्दस्य रूपभेदः दृश्यते । एषः भेदः सन्दर्भानुसारमेव प्रवृत्तः ।
एतेषां सुबन्तानां सप्तविभक्तयः सन्ति । ताश्च प्रथमा , द्वितीया , तृतीया , चतुर्थी , पञ्चमी , षष्ठी , सप्तमी इति। सम्बोधनप्रथमा इति प्रथमाविभक्तेः एकः भागः इत्यतः सा विभक्तिः पृथक्तया न परिगण्यते ।
'सुप्' प्रत्ययाः। एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाविभक्तिः सु(स्) औ जस्(अस्)
द्वितीयाविभक्तिः अम् औट्(औ) शस्(अस्)
तृतीयाविभक्तिः टा(आ) भ्याम् भिस्
चतुर्थीविभक्तिः ङे(ए) भ्याम् भ्यस्
पञ्चमीविभक्तिः ङसि(अस्) भ्याम् भ्यस्
षष्टीविभक्तिः ङस्(अस्) ओस् आम्
सप्तमीविभक्तिः ङि(इ) ओस् सुप्
प्रत्येकं विभक्तेः अर्थभेदाः सन्ति । अकारान्तादिशब्दानां सप्त विभक्तयः सन्ति इति सूचयन् बालप्रबोधनस्थः श्लोकः अधः दीयते ।
'പ്രഥമാ ച ദ്വിതീയാ ച
തൃതീയാ ച ചതുര്ത്ഥ്യപി
പഞ്ചമീ ഷഷ്ഠിയും സപ്ത-
മ്യേവമേഴു വിഭക്തികള്'
विभक्तीनां अर्थभेदाः
അതെന്ന് പ്രഥമയ്ക്കര്ത്ഥം
ദ്വിതീയക്കതിനെ പുനഃ
അതിനോടതിലേക്കെന്നും
ദ്വിതീയക്കര്ത്ഥമായ്വരും
തൃതിയാ ഹേതുവായിട്ടു
കൊണ്ടാലോടൂടെയെന്നപി
ആയിക്കൊണ്ടു ചതുര്ത്ഥീ ച
സര്വ്വത്ര പരികീര്ത്തിതാ
അതിങ്കല്നിന്നു പോകെകാള്
ഹേതുവായിട്ടു പഞ്ചമീ
ഇക്കുമിന്നുമുടെ ഷഷ്ഠി-
ക്കതിന്റെ വെച്ചുമെന്നപി
അതിങ്കല് അതില്വെച്ചെന്നും
വിഷയം സപ്തമീ മതാ
വിഭക്ത്യര്ത്ഥങ്ങളീവണ്ണം
ചൊല്ലുന്നു പല ജാതിയും
പ്രഥമാ അത് ബാലഃ ബാലന്
ദ്വിതീയാ അതിനെ ബാലം ബാലനെ
അതിനോട് ബാലം ബാലനോട്
അതിലേക്ക് ഗൃഹം വീട്ടിലേക്ക്
തൃതിയാ ഹേതുവായിട്ട് ബാലേന ബാലന്ഹേതുവായിട്ട്
കൊണ്ട് ബാണേന ബാണംകൊണ്ട്
ഓട് ബാലേന ബാലനോട് കൂടെ
ആല് രാമേണ രാമനാല്
ഊടെ വനേന വനത്തിലൂടെ
ചതുര്ത്ഥീ ആയിക്കൊണ്ട് ബാലായ ബാലനായിക്കൊണ്ട്
പഞ്ചമീ അതിങ്കല്നിന്ന് വനാത് വനത്തില് നിന്ന്
കാള് ബാലാത് ബാലനേക്കാള്
ഹേതുവായിട്ട് പുണ്യാത് പുണ്യം ഹേതുവായി
ഷഷ്ഠീ ഇക്ക് മമ എനിക്ക്
ഇന്ന് അസ്യ അവന്
ഉടെ സീതായാഃ സീതയുടെ
വെച്ച് ബാലാനാം ബാലന്മാരില് വെച്ച്
അതിന്റെ ബാലസ്യ ബാലന്റെ
സപ്തമീ അതിങ്കല് ബാലേ ബാലനില്
അതില്വെച്ച് ബാലേഷു ബാലന്മാരില് വെച്ച്
വിഷയം മോക്ഷേ മോക്ഷവിഷയത്തില്
प्रथमाविभक्तिः।
यस्य पदस्य उच्चारणेन सः शब्दः तमेवार्थं बोधयति सैव प्रथमा विभक्तिः । सामान्येन वाक्ये कर्तृपदस्यैव प्रथमा विभक्तिः इति नाम ।
अधः दीयमानाः शाब्दाः प्रथमाविभक्तिं सूचयन्ति ।
प्रातिपदिकार्थे - रामः , वृक्षः , पशुः...............
लिङ्गमात्रे - नरः , नारी , पुस्तकम् , तटः , तटी , तटम्............
परिमाणमात्रे - द्रोणः
वचनमात्रे (संख्या) - एकः , द्वौ , चत्वारः................
उदाहरणानि।
१ . बालकः क्रीडति । २ . बालकौ वदतः ।
३ . बालकाः धावन्ति । ४ . वनिता नृत्यति ।
५ . वनिते हसतः । ६ . वनिताः पश्यन्ति ।
७ . नदी प्रवहति । ८ . नद्यौ प्रवहतः ।
९ . नद्यः प्रवहन्ति । १० . कविः काव्यं रचयति ।
११ . कवयः परस्परं । १२ . गुरुः पाठयति ।
१३ . धेनवः चरन्ति । १४ . मधु कानने भवति ।
१५ . पितरः स्वपुत्रान् सम्यक् पालयन्ति । १६ . नौः मन्दं चलति ।
१७ . वाचः मधुराः भवन्ति । १८ . वणिजौ एकत्र तिष्ठतः ।
१९ . राजा जनान् रक्षति । २० . अहं मन्दिरे तिष्ठामि ।
२१ . आवां चित्रं पश्यावः । २२ . वयं गीतं गायामः
२३ . त्वं संस्कृतं पठसि । २४ . युवां श्लोकान् लिखथः ।
१५ . यूयं शाटिकां क्रीणीथ । २६ . सः सदा चिन्तयति ।
२७ . तौ पूजां कुरुतः । २८ . ते वृथा कुप्यन्ति ।
२९ . सा बालिका हसति । ३० . ते अध्यपिके अध्यापयतः ।
३१ . ताः वाटिकाः शोभन्ते । ३२ . आचार्यः शिष्यम् अनुगृह्णाति ।
३३ . राजानः युद्धं कुर्वन्ति । ३४ . विद्वान् वेदिकायाम् उपविशति ।
३५ . विद्वांसः वाक्यार्थविचारं कुर्वन्ति । ३६ . भवन्तः कुत्र वसन्ति ।
३७ . धीमान् सर्वत्र विजयं लभते ।
द्वितीयाविभक्तिः।
कर्ता स्वक्रियया यत् प्राप्तुं नितराम् इच्छति तदेव वाक्ये 'कर्म' इति उच्यते । एतत् कर्म कर्तरिवाक्ये द्वितीयाविभक्तौ कर्मणि वाक्ये प्रथमाविभक्तौ च भवति । 'रामः विद्यालयं गच्छति' इत्यस्मिन् वाक्ये रामस्य महती प्रेप्सा (प्राप्तुम् इच्छा) विद्यालयप्राप्तिरेव । अतः विद्यालयशब्दे द्वितीया विभक्तिः ।
उदाहरणानि।
१ . अध्यापकः बालकं पृच्छति । २ . राघवः कृष्णं पश्यति ।
३ . माता सीताम् आह्वयति । ४ . पिता पुत्रीं लालयति ।
५ . भक्तः प्रातः देवं नमति । ६ . बालः मृगान् पश्यति ।
७ . तातः सुतां ताडयति । ८ . शिष्यः गुरून् वन्दते ।
९ . गोपालकः धेनुं कर्षति । १० . पिता पुत्रम् आलिङ्गति ।
११ . गायिका कविताः आलपति । १२ . बालकाः जलं पिबति ।
१३ . छात्राः वेदान् अपठन् । १४ . भक्ताः प्रतिदिनं स्तोत्राणि वाचयेयुः ।
१५ . बालिके मातरं वदतः । १६ . अध्यापिका बालकौ प्रश्नम् अपृच्छत् ।
१७ . राजानः शत्रून् संहरन्ति । १८ . देवाः ब्रह्माणम् अयाचन्त ।
१९ . मुनिः स्नानार्थं नदीं गच्छति । २० . आवां वाटिकां प्राप्नुव ।
२१ . वयं सर्वे गृहम् अगच्छाम । २२ . महाकविं दृष्ट्वा सज्जनाः अतुष्यन् ।
२३ . भवान् कृपया मतिं परिवर्तयतु । २४ .जनाः सुलभतया वारि लभन्ते ।
२५ . नृपः केनचित् कारणेन सेनान्यम् अताडयत् ।२६ . मधुमक्षिकाः शीघ्रं मधूनि सञ्चिन्वन्ति ।
२७ . मम पिता गाः अक्रीणात् । २८ . जनाः वर्षायै जलमुचं प्रार्थयन्ति ।
२९ . पण्डितस्य वाचं श्रुत्वा सर्वे विस्मिताः ।
तृतीयाविभक्तिः।
क्रियार्थं वाक्ये यत् अत्यन्तं सहायकं भवति तत् करणम् । यद्यपि द्रष्टा , द्रष्टव्यं चित्रं च स्तः तथापि नेत्राभावे 'दर्शनक्रिया' न सम्भवति , नेत्रयोः भावे क्रिया सम्भवति च । अतः अत्र 'नेत्रं' दर्शनक्रियायाः 'करणं' भवति । 'बालः नेत्राभ्यां चित्रं पश्यति ।' अस्मिन् वाक्ये 'बालः' कर्ता , चित्रं कर्म , 'नेत्राभ्याम्' इति दर्शनक्रियायाः 'करणं' भवति ।
उदाहरणानि ।
१ . अध्यापकः सुधाखण्डेन लिखति ।
२ . कृष्णेन कंसः हतः ।
३ . विद्या परिश्रमेण भवति ।
४ . बालः मार्गेण सञ्चरति ।
५ . भगवतः दर्शनं पुण्येन भवति ।
६ . रामः दक्षिणेन करेण लिखति ।
७ . अहं मित्रेण सह विद्यालयं गच्छामि ।
८ . जलेन विना जीवनम् अशक्यम् ।
९ . सरः कमलेन विभाति ।
१० . शान्ति: श्रद्धया एव कथां पठति ।
११ . गुडेन मिश्रितम् अन्नं स्वादु भवति ।
१२ . त्वं केन यानेन गृहं गच्छसि ?
१३ . अयं मालाकारः इति कुसुमैः ज्ञायते ।
१४ . समुद्रेण लालितः भवति भारतदेशः ।
१५ . कृष्णः वनमालाभिः भूषितः अस्ति ।
१६ . विद्यया हीनः जनः न शोभते ।
१७ . आवां गीतया प्रबुद्धौ ।
१८ . मम माता पित्रा समं मन्दिरं गता ।
१९ . त्वं नेत्राभ्यां पश्यसि ।
२० . वयं कन्दुकेन क्रीडामः ।
२१ . यूयं कुसुमैः अलङ्कारं कुरुथ ।
२२ . सः धेनुभिः जीवति ।
२३ . दिलीपः राजमार्गेण गच्छति ।
२४ . भारतं केरलदेशेन विभाति ।
२५ . सभा विद्वद्भिः शोभते ।
चतुर्थीविभक्तिः।
कर्ता यत् उद्दिश्य क्रियां करोति तत्र चतुर्थी विभक्तिः भवति । 'छात्रः पठनाय विद्यालयं गच्छति ' इत्यस्मिन् वाक्ये बालः इति कर्तुः विद्यलयगमनक्रियायाः उद्देश्यं पठनमित्यतः पठनशब्दस्य चतुर्थी विभक्तिः । तद्वत् यमुद्दिश्य दानं करोति तं सूचयितुं चतुर्थीविभक्तिः प्रयोक्तव्या।
१ . जनाः क्षीराय धेनुं पालयन्ति।
२ . अध्यापकः शिष्याय विद्यां यच्छति ।
३ . महाराजः पण्डिताय पारितोषिकं ददाति ।
४ . आचार्यः शिष्याय उपायनं ददाति ।
५ . नदी सर्वेभ्यः जन्तुभ्यः मधुरं जलं यच्छति ।
६ . रथवाहकः अश्र्वेभ्यः तृणम् आनयति ।
७ . जननी पुत्रेभ्यः भोजनं पचति ।
८ . सर्वे जनाः आत्मशान्तये यतन्ते ।
९ . सर्वा नद्यः परोपकाराय एव वहन्ति ।
१० . संस्कृतपठनं पुण्याय भवति ।
११ . अग्नये आज्यं समर्पयामि ।
१२ . भगवते वासुदेवाय नमः ।
१३ . रामाय नमः ।
१४ . गुरुः असत्यवादिने अन्तेवासिने क्रुध्यति ।
१५ . इदं दुग्धं बालाय अलम् ।
१६. आतङ्कवादिनः साधुभ्यः जनेभ्यः द्रुह्यन्ति ।
१७. वक्तृभ्यः स्वस्ति ।
१८ . युवा सुवर्णाय स्पृहयति ।
१९ . देशस्य रक्षिता एकस्मै सैनिकाय अकुप्यत् ।
२० . सर्वेभ्यः राजभ्यः मृगया रोचते ।
२१ . भ्राता स्वस्रे पाठपुस्तकम् आनयति ।
२२ . बुभुक्षितेभ्यः अन्नं रोचते ।
२३ . विदुषे राजा सुवर्णमुद्रिकां प्रयच्छति ।
पञ्चमीविभक्तिः।
यस्मात् वियोगः भवति , यस्मात् यत् श्रेष्ठतरं भवति , यत् हेतुः इत्यर्थे भवति तत् पञ्चमी विभक्तौ भवति । 'वृक्षात् फलं पतति' इत्यस्मिन् वाक्ये फलस्य वृक्षात् वियोगः भवति , अतः वृक्षशब्दस्य पञ्चमी विभक्तिः ।
१. भटः अश्वात् पतति । (विश्लेषः)
२ . राकेशः रमेशात् सुन्दरः अस्ति । (श्रेष्ठत्वम्)
३ . कामात् क्रोधोsपि जायते । (हेतुः)
४ . वृक्षात् पुष्पाणि पतन्ति ।
५ . नद्यः हिमालयात् प्रभवन्ति ।
६ . शकटः नगरात् बहिः गच्छति ।
७ . इदं रेल्यानं कन्याकुमार्याः कर्णाटकं गच्छति ।
८ . जलात् वैद्युतिम् उदपादयत् ।
९ . मत् बलवत्तरः कः ?
१० . छात्राः विद्यालयात् सुसंस्कृतिं लभन्ते ।
११ . सर्वे सूर्यात् एव ऊर्जं लभन्ते ।
१२ . चोराः आरक्षकात् बिभेति ।
१३ . कस्तूरिमृगात् कस्तूरी लभते ।
१४ . वेदेभ्यः सर्वं विज्ञानं प्राप्तुं शक्यते ।
१५ . अहं रात्रौ गृहात् बहिः न गमिष्यामि ।
१६ . त्रिचक्रिकायाः शीघ्रता लोकयानस्य अस्ति ।
१७ . कृष्णात् रामः श्रेष्ठः अस्ति ।
१८ . मेघात् वृष्टिः वर्षिष्यति ।
१९ . नद्यः सरसः अधिकं प्रवहन्ति ।
२० . गजाः सरसः पङ्कजानि उत्पाटयन्ति।
२१ . देवाः ब्रह्मणः वरं लभन्ते ।
२२ . बालकः मातुः प्रथमशिक्षां लभते ।
२३ . दरिद्राः दातृभ्यः धनं प्राप्नुवन्ति ।
२४ . यात्रिकः नावः अधः अपतत् ।
२५ . तारकासुरः भगवतः वरं प्राप्य देवान् अपीडयत् ।
षष्ठीविभक्तिः।
द्वयोः नामपदयोः सम्बन्धं सूचयितुं षष्ठी विभक्तिः प्रयुज्यते । स्वस्वामिसम्बन्धः जन्यजनकसम्बन्धः , अवयवावयविसम्बन्धः , इत्यादयः अस्मिन् अन्तर्भवन्ति । 'सीतायाः द्वौ पुत्रौ आस्ताम्' अत्र सीतायाः पुत्रद्वयेन सह सम्बन्धः उक्तः । अतः सीतायाः इति षष्ठी विभक्तिः ।
उदाहरणानि।
१ . दशरथस्य तिस्रः भार्याः आसन् ।
२ . राधायाः हस्ते पुस्तकम् अस्ति ।
३ . सुग्रीवः रामस्य मित्रम् आसीत् ।
उपरितनवाक्येषु सीतायाः दशरथस्य , राधायाः , रामस्य इत्यादीनि पदानि षष्ठी विभक्तौ प्रयुक्तानि ।
४. तव नाम किम् ?
५ . मम नाम सुधा इति भवति ।
६ . हंसस्य वर्णः श्र्वेतः भवति ।
७ . रामायणस्य कर्ता वाल्मीकिः ।
८ . भारतस्य उत्तरस्यां दिशि हिमालयः अस्ति ।
९ . कन्याकुमार्याः सौन्दर्यं सर्वेषां मनांसि हरति ।
१० . भानोः प्रकाशः भूमिं स्पृशति ।
११ . अहं तव पुस्तकं पठामि ।
१२ . वृक्षस्य अधः पत्राणि सन्ति ।
१३ . सीतायाः पिता भवति जनकः ।
१४ . रमायाः पतिः विष्णुः भवति ।
१५ . काश्याः दृश्यं पूर्वं सुन्दरम् आसीत् ।
१६ . मम गृहस्य दक्षिणतः एका नदी अस्ति ।
१७ . मातृणां सभा (समितिः) शिशुसंरक्षणं करोति ।
१८ . हे देवि ! तव चरणयुगं मे शरणम् ।
१९ . भारतशासनस्य राजचिह्ने 'सत्यमेव जयते' इति लिखितमस्ति ।
२० . नैयायिकाः मनसः अणुत्वं कल्पयन्ति ।
२१ . सर्वेषां पालकः ईश्र्वरः ।
२२ . भवतः गृहं कुत्र वर्तते ?
२३ . धेनोः क्षीरं स्वादु भवति ।
२४ . पक्षिणां राजा गरुडः अस्ति ।
२५ . त्वं विदुषां गणं पश्य ।
सप्तमीविभक्तिः।
एकस्याः व्यक्तेः वस्तुनः वा आधारं सूचयितुं सप्तमी विभक्तेः प्रयोगः क्रियते । 'हस्ते पुस्तकम् अस्ति' अत्र पुस्तकस्य आधारः भवति हस्तः इत्यतः हस्तशब्दस्य सप्तमी विभक्तिः । 'नृपः सिंहासने उपविशति' , अस्मिन् वाक्ये नृपस्य (राज्ञः) आधारः भवति सिंहासनम् इत्यतः सिंहासनशब्दस्य सप्तमीविभक्तिः ।
१ . इक्षौ माधुर्यम् अस्ति ।
२ . मोक्षे इच्छा अस्ति ।
३ . देवेषु इन्द्रः श्रेष्ठः अस्ति ।
उदाहरणानि।
१ . वृक्षे शुकस्य नीडम् अस्ति ।
२ . संस्कृतभाषायां सप्त विभक्तयः सन्ति ।
३ . समुद्रे रत्नानि सन्ति ।
४ . पुस्तकेषु चित्राणि सन्ति ।
५ . हैदराबाद्नगरे बोम्बस्फोटनम् अभवत् ।
६ . रात्रौ इन्दुः प्रकाशते ।
७ . एकस्मिन् हस्ते पञ्च अङ्गुल्यः सन्ति ।
८ . रामायणे वर्षायाः वर्णनम् अस्ति ।
९ . कविषु कालिदासः श्रेष्ठः ।
१० . मम गृहे अष्ट जनाः सन्ति ।
११ . वने सिंहस्य गर्जनम् श्रुणुयात्।
१२ . वाराणस्यां संस्कृतकलालयः वर्तते ।
१३ . विमाने यात्रिणः उपविशन्तु ।
१४ . भीमः बकस्य केशेषु गृहीतवान् ।
१५ . अहम् ईश्र्वरे विश्र्वसिमि ।
१६ . रामस्य पितरि भक्तिरासीत् ।
१७ . गुरौ ज्ञानं वर्तते ।
१८ . माता दुहितरि स्निह्यति ।
१९ . राजसु रामः सद्गुणसम्पन्नः भवति ।
२० . हंसाः सरत्सु विहरन्ति ।
२१ . भीष्मपर्वणि भगवद्गीता अस्ति ।
२२ . सा तस्य शिरसि अताडयत् ।
सतिसप्तमी।
सति सप्तमी अथवा भावलक्षणसप्तमी इति कश्चन विशेषप्रयोगः अपि अस्ति । एकस्य कर्तुः , कर्मणः वा क्रियाकालः अन्यक्रियायाः कालं बोधयति चेत् तत्र सप्तमीविभक्तिः कर्तृपदे भवति । एवं कर्मणि प्रयोगः चेत् कर्मपदे सप्तमी विभक्तिः भवति । कर्तृविशेषणेsपि सप्तमी विभक्तिः भवति । 'रामे वनं गते दशरथः दुःखितः' इत्यत्र रामस्य वनगमनकालेन दशरथस्य दुःखकालः सूचितः । तदा कर्तृपदस्य रामशब्दस्य तस्य विशेषणस्य गत शब्दस्यापि सप्तमीविभक्तौ प्रयोगः ।
१ . व्याघ्रे नगरं प्रविष्टे जनाः भीताः अभवन् ।
२ . अलङ्कृतेषु गजेषु आगतेषु शिशवः अतुष्यन् ।
३ . बालकयोः उद्यानं प्रविष्टयोः सुहृदः आगच्छन् ।
४ . सचिवेषु समागतेषु जनाः हस्तताडनम् अकुर्वन् ।
५ . बिडाले आगते शुकः पञ्चरं प्राविशत् ।
६ . निर्वाचने आसन्ने जनाः उत्सुकाः जाताः ।
सम्बोधनप्रथमाविभक्तिः।
प्रथमाविभक्तेः एकः अवान्तरभागः एव सम्बोधनविभक्तिरिति पूर्वमेव उक्तं खलु । सम्बोधनं तु नामाभिमुखीकृत्य बोधनम् । 'हे बाल गच्छ' अत्र बालम् अभिमुखीकृत्य गमनं कर्तव्यमिति बोधयति इत्यतः 'सम्बोधनप्रथमा' । 'हे' शब्दं विनापि प्रयोक्तुं शक्यते। उदा - बाल! आगच्छ। भो शब्दमपि सम्बोधनार्थं प्रयुज्यते। उदा- भो देवाः।
उदाहरणानि।
१ . हे देव ! मां रक्ष ।
२ . हे पुत्रि ! मा वद ।
३ . हे छात्राः ! कोलाहलं मा कुरुत ।
४ . हे पुत्र्यौ ! संस्कृतं पठतम् ।
५ . हे रमे ! क्रीडामः ।
६ . हे कवे ! काव्यं लिख ।
७ . हे जननि ! क्षीरं यच्छ ।
८ . हे अम्ब ! त्वमेव शरणम् ।
९ . हे शम्भो ! रक्ष माम् ।
१० . हे पितः ! अहम् अत्रास्मि ।
११ . हे मातः ! धनं प्रयच्छ ।
१२ . हे वणिक् ! कङ्कणं दर्शय ।
१३ . हे राजानः ! आज्ञापयन्तु ।
१४ . हे भगवन् ! वरं देहि ।
१५ . हे विद्वन् ! कथम् अहं संस्कृतं पठिष्यामि ?
१६ . हे मनः ! रामरसम् अनुभव ।