विशेषणविशेष्याणि।

द्वितीयोध्यायः।

विशेषणविशेष्याणि।

वाक्यम् अनेकप्रकारं भवति। कानिचन वाक्यानि पठतु।

बालः क्रीडति।

बालिका फलं खादति।

सीता नृत्यति।

रोहिणी श्लोकम् आलपति।

युवा लेखनीं क्रीणाति।

रामः अर्थं जानाति।

एतेषां वाक्यानां अवयवाः के सन्ति? सर्वेषु कर्तारः क्रियाः च सन्ति। केषुचित् कर्माणि च सन्ति। अधोदत्तानि वाक्यानि पठतु।

निपुणः बालः क्रीडति।

सुन्दरी सीता नृत्यति।

समर्थः रामः।

अत्र को भेदः अत्र कर्तृणां विशेषणानि भवन्ति निपुणः सुन्दरी समर्थः इति। बालः क्रीडति इत्यत्र साधारणः बालः क्रीडति इत्यर्थः। अत्र निपुणः इति विशेषणत्वात् निपुणत्वविशिष्टः बालः क्रीडति इत्यर्थः। निपुणत्वं तु बालस्य विशेषणं भवति। एतत् विशेषणं तु तस्य बालस्य इतरेभ्यः बालेभ्यः विशेषतां सूचयति। अतः निपुणः इति विशेषणम्। विशेषणेन युक्तं पदं विशेष्यं भवति। अतः बालः इति विशेष्यम्। एवं सुन्दरी, समर्थः इति पदे विशेषणे। तथा सीता, रामः इति पदे विशेष्ये च।

अभ्यासः – अधोदत्तेषु विशेषणानि चित्वा लिखत।

  1. समीचीना लेखनी ।

  2. निर्धनः जनः।

  3. उन्नतः वृक्षः।

  4. नुतनं युतकम्।

  5. सरसा कथा।

  6. मनोहरं पुष्पम्।

  7. सुन्दरः पुरुषः।

  8. रम्या नगरी।

  9. स्फुटः आशयः।

10.स्वच्छं वस्त्रम्।

विशेषणविशेष्ययोः समानलिङ्गत्वम्।

 

विशेषणपदं विशेष्यपदस्य लिङ्गमनुसरति । अर्थात् विशेष्यं यल्लिङ्गे भवति तल्लिङगे एव विशेषणमपि भवेत्।

 

उदाहरणानि।

श्रेष्ठः पुरुषः।

श्रेष्ठा वनिता।

श्रेष्ठं पुस्तकम्।

सुन्दरः युवा।

सुन्दरी युवतिः।

सुन्दरं पुष्पम्।

उत्तमः बालः।

कृशा बालिका।

मधुरं फलम्।

 

अभ्यासः – विशेष्यमनुसृत्य विशेषणं योजयतु।

  1. .................... नदी। (दीर्घ)

  2. .................... बालः। (स्थूल)

  3. .................... शाटिका।(नूतन)

  4. .................... चित्रम्। (सुन्दर)

  5. .................... वनम्। (विजन)

  6. .................... पुरुषः। (उत्तम)

 

विशेषणविशेष्ययोः समानवचनत्वम्।

विशेष्यं यद्वचने भवति विशेषणमपि तद्वचने भवेत्।

 

उदाहरणानि।

एकवचनम्      द्विवचनम्         बहुवचनम्

निपुणः बालः    निपुणौ बालौ      निपुणाः बालाः

उत्तमा स्त्री       उत्त्मे स्त्रियौ       उत्तमाः स्त्रियः

मनोहरं पुष्पम्    मनोहरे पुष्पे      मनोहराणि पुष्पाणि

 

विशेषणविशेष्ययोः समानविभक्तित्वम्।

विशेषणविशेष्ययोः लिङ्गसमानता वचनसमानता च यथा भवतः तथा विभक्तिसमानता अप्यस्ति। अर्थात् विशेष्यस्य या विभक्तिः भवति सा विभक्तिरेव विशेषणस्यापि भवेत्।

 

उदाहरणानि।

प्रथमा          समर्थः बालकः पठति ।

द्वितीया        समर्थं बालकं अभिनन्दति ।

तृतीया         समर्थेन बालेन आशयः कथ्यते ।

चतुर्थी         समर्थाय बालाय पारितोषिकं ददाति ।

पञ्चमी         समर्थात् बालात् अर्थं शृणोति ।

षष्ठी           समर्थस्य बालस्य नाम कृष्ण इति ।

सप्तमी         समर्थे बाले सर्वे स्निह्यति ।

समानलिङ्गत्वं समानवचनत्वं च।

 

विशेषस्यसमानविभक्तित्वं विशेषणस्य। यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य । तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्यापि ।

 

मिश्रोदाहरणानि पठतु ।

  1. आतिथेयः सर्वान् बान्धवान् आहूय उक्तवान् ।

  2. सज्जनः दुष्टान् जनान् सर्वथा परिहरति ।

  3. तीक्ष्णया छुरिकया अहं व्रणिता ।

  4. सुन्दरे सायंकाले सः स्वगृहं प्रत्यागतवान् ।

  5. सः मित्राय सुरेन्द्राय धनं ददाति ।

  6. एका महत्वपूर्णा घटना समभवत् ।

  7. समीपात् ग्रामात् आगतः जनः उत्तमः भवति ।

  8. समीचीनस्य उत्तरस्य कृते पूर्णाङ्कानि लभ्यन्ते ।

  9. लवकुशौ श्रेष्ठौ बालकौ स्तः ।

  10. उन्नतात् वृक्षात् पर्णानि पतन्ति ।

अभ्यासः – उचितविशेषरूपाणि योजयतु ।

  1. ..................... इयं गङ्गा पवित्रा भवति । (अमृतजल)

  2. ..................... अभ्यासः परीक्षार्थं भवेत् । (प्रायोगिक)

  3. ग्रामे .................... विद्यालयः अस्ति । (प्राथमिक)

  4. ..................... उपदेशेन नीतिं ज्ञास्यामः । (नैतिक)

  5. ..................... छात्राय प्रतिफलं ददाति । (सेव्यमान)

  6. ..................... वृक्षात् फलानि पतन्ति । (कम्पमान)

  7. ..................... मातृभूम्यै सेवां कुर्मः । (रक्षणीया)

  8. ..................... आशयैः सम्पुष्टं पुस्तकम् । (भिन्न)

  9. ..................... स्थलाः केरलेषु वर्तन्ते । (दर्शनीय)

  10. ...................... पुरुषौ नगरम् आगच्छन्तः । (वीर)

विशेषणस्य त्रैविध्यम् ।

तत्कालविशेषणम्, क्रियाविशेषणम्, पूर्वकालविशेषणम् अथवा स्थिरविशेषणम्।

कानिचन उदाहरणानि पठतु ।

कुलीनः रामः ।

सुन्दरः युवा ।

सत्यसन्धा बालिका ।

कृष्णः चिन्तयन् उत्तरम् अवदत् ।

बालः रुदन् स्वस्य कथां वदति ।

छात्रः हसन् पुरस्कारस्वीकरणाय प्रातिष्ठत ।

मन्त्री सभायां अकस्मात् अगच्छत् ।

नेता घोषयात्रायाः अग्रतः चलति ।

सः तं प्रति असकृत् उवाच ।

कुलीनः रामः इत्यत्र कुलीनः विशेषणपदं रामः इति विशेष्यपदम्। अत्र कुलीनत्वं रामे पूर्वमेवास्ति। कुलीनत्वं स्थिरतया तस्मिन् वर्तते। अतः कुलीनः इति विशेषणं पूर्वकालविशेषणम् अथवा स्थिरविशेषणं भवति। एवं सौन्दर्यम् इति, सत्यसन्धता बालिकायां च । अतः एते विशेषणे स्थिरविशेषणे अथवा पूर्वकालविशेषणे भवतः ।

अथ त्रिषु वाक्येषु, चिन्तयन्, रुदन्, हसन् इत्येतानि तात्कालिकविशेषणानि भवन्ति । चिन्ता, रोदनं, हासश्च अल्पकालिकः अथवा तात्कालिकः भवति । एवम् अन्तिमेषु वाक्येषु अकस्मात् अग्रतः, असकृत् इत्येतानि क्रियाविशेषणानि । क्रियाविशेषणानि प्रायः अव्ययानि भवन्ति।

 

अभ्यासः – विशेषणभेदान् (तात्कालिक – स्थिरविशेषणानि क्रियाविशेषणानि च) निर्दिशत ।

  1. अश्वः शीघ्रं धावति ।

  2. दुर्योधनः क्रुध्यन् ततः जगाम ।

  3. धर्मिष्ठः राजा राज्यं शशास ।

  4. देवः झटिति अप्रत्यक्षोेेsभवत् ।

  5. मुनिः विहसन् इदमब्रवीत् ।

  6. धीरः योद्धा राज्ञा पुरस्कृतः ।

  7. विष्णुः ध्रुवस्य पुरतः आविर्बभूव ।

संख्याशब्दाः अपि विशेषणरूपेण उपयुज्यन्ते ।

 

उदा – एकः पुरुषः/ एका कन्या/ एकं पुष्पम्

द्वौ बालकौ/ द्वे बाले/ द्वे चित्रे

त्रयः अध्यापकाः/ तिस्रः महिलाः/ त्रीणि फलानि

चत्वारः वेदाः/ चतस्रः नद्यः/ चत्वारि दिनानि

एकेन पुरुषेण/ एकया स्त्रिया/ एकेन पुष्पेण

 

क्रियाविशेषणानि कानिचन अव्ययानि ।

अचिरम् अजस्रम् अञ्चसा

आशु ईषद् उच्चैः

तूष्णीम् सपदि सहसा

सुचिरम् सविनयम् सक्रोधम्

सशोकम् ससन्तोषम् साश्चर्यम्।

 

joomla template