कृत्यप्रत्ययाः।

 

 

तव्यत्-अनियर् यत् प्रत्ययाः (कृत्यप्रत्ययाः)

 

वाक्यानां प्रयोगः कर्तरि प्रयोगः कर्मणि प्रयोगः , भावे प्रयोगः इति त्रिधा । कर्तृवाच्यं कर्मवाच्यं, भाववाच्यं इति अन्यथापि वक्तुं शक्यते। कर्मार्थे भावार्थे च एते कृत्यप्रत्ययाः प्रयुज्यन्ते। एतेषु प्रत्ययेषु प्रधानाः भवन्ति तव्य, तव्यत्,अनियर्, यत्,। एते कृदन्तेषु कृत्यप्रत्ययाः भवन्ति।प्रकारवाचिषु लकारेषु अन्यतमः भवति विधिलिङ्। विधिलिङ् समानार्थकानि भवन्ति कृत्यप्रत्ययरूपाणि।

 

उदा-

 

छात्राः पाठं लिखेत्। (विधिलिङ्)

 

छात्रेण पाठः लिखितव्यः। (तव्यत्)

 

छात्रेण पाठः लेखनीयः। (अनियर्)

 

छात्रेण पाठः लेख्यः। (यत्)

 

बालः रोटिकां खादेत्। (विधिलिङ्)

 

बालेन रोटिका खातितव्या। (तव्यत्)

 

बालेन रोटिका खादनीया। (अनियर्)

 

बालेन रोटिका खाद्या (यत्)

 

बालः पुस्तकं पठेत्। (विधिलिङ्)

 

बालेन पुस्तकं पठितव्यम्। (तव्यत्)

 

बालेन पुस्तकं पठनीयम्। (अनियर्)

 

बालेन पुस्तकं पाठ्यम्। (यत्)

 

अपि च 'तदर्थं योग्यः' इत्यर्थोपि एतेषां प्रत्ययरूपाणां युज्यते।

 

उदा-

 

गन्तुं योग्यः मार्गः - गन्तव्यः मार्गः।

 

पठितुं योग्यं पुस्तकम् - पठनीयं पुस्तकम्।

 

खादितुं योग्या वटिका - खाद्या वटिका।

 

पुल्लिङ्ग , स्त्रीलिङ्ग नपुंसकलिङ्गेषु एतेषां प्रत्ययानां प्रयोगः अकारान्तः आकारान्तशब्दवत् भवति।

 

धातु   प्रत्ययः   पुल्लिङ्गः   स्त्रीलिङ्गः    नपुंसकः

 

अर्च्   तव्यत्   अर्चितव्यः  अर्चितव्या    अर्चितव्यम्

 

       अनियर्   अर्चनीयः   अर्चनीया     अर्चनीयम्

 

       यत्       अर्च्यः       अर्च्या         अर्च्यम्

 

कृञ् तव्यत्    कर्तव्यः     कर्तव्या        कर्तव्यम्

 

      अनियर्   करणीयः   करणीया       करणीयम्

 

      यत्       कार्यः       कार्या           कार्यम्

 

आप् तव्यत्   आप्तव्यः    आप्तव्या        आप्तव्यम्

 

     अनियर्   आपनीयः   आपनीया      आपनीयम्

 

     यत्       आप्यः      आप्या         आप्यम्

 

रक्ष् तव्यत्    रक्षितव्यः   रक्षितव्या      रक्षितव्यमा

 

   अनियर्    रक्षणीयः    रक्षणीया       रक्षणीयम्

 

    यत्       रक्ष्यः        रक्ष्या          रक्ष्यम्

 

जि तव्यत्    जेतव्यः      जेतव्या       जेतव्यम्

 

   अनियर्    जयनीयः    जयनीया      जयनीयम्

 

    यत्       जेयः         जेया          जेयम्।

 

उदाहरणवाक्यानि

 

पुस्तकं परीक्षा प्रकोष्ठात् बहिः स्थापयितव्यम्।

 

सेवकेन आदेशः पालनीयः।

 

आरामे पुष्पाणि न स्पर्शनीयानि।

 

भवता मातुलगृहं गन्तव्यम्।

 

भटैः देशरक्षा करणीया।

 

समर्थै बालैः परीक्षा जेया।

 

बालकैः कोलाहलः न करणीयः।

 

जनैः उपकारः स्मरणीयः।

 

माता सर्वैः माननीया।

 

वृत्तान्तपत्रं केन पठनीयम्।

 

छात्रैः उद्यानं द्रष्टव्यम्।

 

एषः कार्यः भवत्या स्मर्तव्यः।

 

भारतीयेन संस्कृतं पठनीयम्।

 

नृपेण नीतियुक्तं शासनं कार्यम्।

 

शासकेन अपाराधी दण्ड्यः।

 

सुन्दरीभिः मालाः धार्याः।

 

युष्माभिः गाने श्रव्ये।

 

राज्ञा स्त्री न वन्ध्या।

 

शिष्येण प्रश्नाः प्रष्टव्याः।

 

मम लोकहितं करणीयम्। कृत्यानां कर्तरि वा २-३-०७१

 

मम इदं कर्म कर्तव्यम्।

 

अस्माकं सत्यं वक्तव्यम्।

 

जनानां धर्मः अनुष्ठेयः।

 

सायाह्ने मम देवालयः गम्यः।.

 

एतेषां प्रत्ययानां विशेषणरूपेण प्रयोगाः।

 

दर्शनीयः पुरुषः।

 

रक्षणीयौ पुरुषौ।

 

उल्लेखनीयाः विषयाः।

 

श्रोतव्या कथा।

 

पूजनीये देव्यौ।

 

चलनीयाः पिपीलिकाः।

 

दर्शनीयं चित्रम्।

 

गन्तव्ये नगरे।

 

खाद्या शाका।

 

तव्यत् अनियर् यत् प्रत्यानां प्रयोगावसरे श्रद्धेयाः अंशाः।

 

एते कर्मवाच्ये भाववाच्ये वा प्रयोक्तव्याः न तु कर्तृवाच्ये।

 

क्रियासूचकपदस्य लिङ्गं वचनं च प्रथमान्तस्थितस्य कर्मपदस्य समानं भवेत्।

 

भाववाच्ये कर्म न स्यात्। क्रियापदं च सर्वदा नपुंसकलिङ्गस्य प्रथमा एकवचने भवेत्।

 

एते प्रत्ययाः विशेषणरूपेणापि प्रयोक्तुं शक्यते।

 

टिप्पणी-

 

कृत्यानां कर्तरि वा इति सूत्रेण कृत्यप्रत्ययानां शब्दानां योगे कर्तृपदं षष्ठ्यामपि भवितुमर्हति विकल्पेन।

 

उदाः मम सेव्यः। विकल्पे तु तृतीया - मया सेव्यः।

 

अभ्यासः - निर्देशानुसारं प्रत्ययानां योजमनं करोतु।

 

मया पुराणं ….................................. (पठ् + अनीयर्)

 

मात्रा पुत्रः............................................ (पाल् + अनीयर्)

 

भवता धनं याचकेभ्यः …........................ (दा + तव्यत्)

 

मातापितरौ पुत्रेण ….............................. (सं + रक्ष् + तव्यत्)

 

शिष्येण उपदेशः …............................... (कृञ् + अनीयर्)

 

पापकर्म सर्वैः........................................ (हा + यत्)

 

ब्रह्मचारिभिः वेदान्तविषयः........................ (ज्ञ + यत्)

 

छात्रैः अध्यापकः ….............................. (पूज् + तव्यत्)

 

रमेशेन श्रद्धया पाठः ….......................... (पठ् + अनीयर्)

 

मया उत्तराणि ….................................. (दाञ् + अनीयर्)

 

जन्तुभ्यः आहारः …............................. (दाञ् + तव्यत्)

 

सैकिल् यानेन वेगेन न …....................... (गम्ल् + तव्यत्)

 

लतया पाकः …................................... (कृञ् + अनीयर्)

 

बालकेन दन्तधावनं ….......................... (कृञ् + अनीयर्)

 

यानचालकैः नियमाः.............................. (पाल् + अनीयर्)

 

यथोचितं योजयतु।

 

 

गन्तव्यः जनाः

 

क्रेतव्यम् मृगौ

 

बोधनीयाः वचनानि

 

वक्तव्या पुष्पम्

 

रक्षमणीयौ धनम्

 

नर्तनीयाः पुरुषः

 

भाषणीयानि वनिता

 

दातव्यम् बालिकाः

 

 

joomla template