धातवः
- Details
- Published on Thursday, 31 July 2014 10:46
संस्कृतंभाषायां माकिं २००० धातवः विद्यन्ते। ते व्याकरणशास्त्रानुसारं परस्मैपदिनः आत्मनेपदिनः उभयपदिनश्च भवन्ति। क्रियावाचिनः भ्वादयः शब्दाः धातवः उच्यन्ते। केचन परस्मैपदिनः।
यथा - पठ्, भु, गाम्, गै इत्यादयः
केचन आत्मनेपदिनः।
यथा - वेप्, वन्द्, एध्, वृध्, सह् इत्यादयः।
उभयपदिनः।
यथा - पच्, कृञ्, क्षिप्, क्षाल्, खण्ड् इत्यादयः।
तत्र क्रियाफलम् आत्मगामि चेदात्मनेपदी परगामी चेत् परस्मैपदी इति च विभुक्तं शक्यम्। इयं व्यवस्था केवलम् उभयपदिनामेव इति बोध्यम्। तदात्वे आत्मनेपदप्रत्ययाः परस्मैपदप्रत्ययाश्च यथायोग्यं क्रियाधातुभिः योज्याः।
यथा - रामः ओदनं पचते। (आत्मगामि पाकक्रियाफलम्)
सूदः ओदनं पचति। (परगामि पाकक्रियाफलम्)
परन्तु अद्यत्वे परस्मैपदम् आत्मनेपदं च यथेच्छं प्रयुज्यते लौकिकैः।
धातूनां गणाः
धातवः दशभिः गणैः विभक्ताः। उचितरूपसिद्ध्यर्थं धातूनां तिङां च मध्ये केचन प्रत्ययाः योज्याः। ते च विकरणप्रत्ययाः इत्युच्यन्ते।
उदा - धातु प्रत्ययः तिङ्प्रत्ययः रूपम्
पच् शप् (अ) ति पचति
एध् शप् (अ) ते एधते
तेषां भेदमनुसृत्य धातवोsपि दशगणेषु पठिताः सन्ति। कर्त्रनुसारम् उचितक्रियारूपनिष्पत्तये धातुगणः पठितः। ते च
“भ्वाद्यदादि जुहोत्यादिः दिवादिः स्वादिरेव च
तुदादिश्च रुधादिश्च तनादि क्री चुरादयः।।" भवन्ति।
1. भ्वादिगणः (शप् प्रत्ययः - अ)
भू, गम्, गै, जि, दृश्, पठ्, हस्, सद, वस्, शुच्, वद्, वृध्, वृत्, लभ, सह्, एध्, रुच्, मुद्, सेव, भज्, नी, याच्, हृ इत्यादयः।
धातुः भू प्रथमपुरुषैकवचने तु
भू शप् (अ) तिप्
भू अ ति
भवति इति रूपसिद्धिः वर्तते।
2. अदादिगणः (शप्, लुक्)
अद्, अस्, इण्, या, रुद्, शास्, स्ना, स्वप्, हन्, आस्, अधि + इण्, शी, ब्रु इत्यादयः।
अद् धातु प्रथमपुरुषैकवचने -
अद् ति
अद् ति
अत्ति इति रूपसिद्धिः।
3. जुहोत्यादिगणः - शपः श्लु (लोपः)
हु, भी, हा, दा, धा, इत्यादयः
हु धातोः प्रथमपुरुषैकवचने -
हु ति
धातोः द्वित्वे - हु हु ति, चुत्वे, जश्त्वे गुणे च।
जुहोति इति रूपसिद्धिः।
4. दिवादिगणः (श्यन् - य)
दिव, कुप्, क्रम्, नृत्, नश्, भ्रम्, शुष्, क्रुध्, क्षम्, द्रुह्, व्यध्, विद्, क्लिश्, खिद्, इत्यादयः।
दिव् धातोः प्रथमपुरुषैकवचने
दिव् य ति
दीव्यति इति रूपसिद्धिः।
5. स्वादिगणः (श्नु - नु प्रत्ययः)
सु, शक्, चि, वृ इत्यादयः।
सु धातोः प्रथमपुरुषैकवचने
सु नु ति,गुणे
सुनोति इति रूपसिद्धिः।
6. तुदादिगणः (श – (अ) प्रत्ययः)
तुद् ति
तुदति इति परस्मैपदे
तुदते इति आत्मनेपदे च रूपसिद्धिः।
7. रुधादिगणः (श्नम् - न प्रत्ययः)
रुध्, छिद्, भुज्, भञ्ज् इत्यादयः।
रुध् धातोः प्रथमपुरुषैकवचनम्।
रुध् श्न ति,रु न ध् ति, णत्वे
रुणद्धि इति रूपसिद्धिः।
रुन्धे इति आत्मनेपदे।
8. तनादिगणः (उ)
तनु,कृ इत्यादयः।
तन् धातोः प्रथमपुरुषैकवचने (उभयपदि)
तन् ति, तन् उ ति
तनोति, तनुते इति रूपसिद्धिः।
9. क्रयादिगणः (श्ना - ना)
क्री, ज्ञा, ग्रह्, बन्ध् इत्यादयः।
क्री धातोः प्रथमपुरुषैकवचने (उभयपदी)
क्री ना ति
क्रीणाति, क्रीणीते इति रूपसिद्धिः।
10. चुरादिगणः (णिच् + शप् – प्रत्ययौ)
चुर्, कथ्, अर्च्, अर्थ इत्यादयः।
चुर् णि अ ति - चुर् अय ति - चोरयति इति रूपसिद्धिः। चोरयते इत्यात्मनेपदे।
धातुगणः
धातुगणः |
धातुः |
विकरणप्रत्ययः |
तिङ् प्रत्ययः
|
प्रथमपुरुष एकवचने क्रियारूपाणि |
भ्वादिगणः |
भू वृध् ख |
शप् (अ) शप् (अ) शप् (अ) |
ति ते ते, ति |
भवति (परस्मैपदी) वर्धते (आत्मनेपदी) खनते, खनति (उभयपदी) |
अदादिगणः |
अद् आस् ब्रुञ् |
लुक् (लोपः) लुक् (लोपः) लुक् (लोपः) |
ति ते ते, ति |
अत्ति (परस्मैपदी) आस्ते (आत्मनेपदि) ब्रूते, ब्रवीति (उभयपदी) |
जुहोत्यादिगणः
|
पा मा दा |
शलुः (लोपः) शलुः (लोपः) शलुः (लोपः) |
ति ते ते, ति |
पिबति (परस्मैपदी) मिमीते (आत्मनेपदी) ददाति, दत्ते (उभयपदी) |
दिवादिगणः |
दिव् दीप् रञ्ज् |
श्यन् (य) श्यन् (य) श्यन् (य) |
ति ते ते, ति |
दीव्यति (परस्मैपदी) दीप्यते (आत्मनेपदी) रज्यते, रज्यति (उभयपदी) |
स्वादिगणः |
दु चि सु |
श्नु (नु) श्नु (नु) श्नु (नु) |
ति ते ते, ति |
दुनोति (परस्मैपदी) चिनुते (आत्मनेपदी) सुनोति, सुनुते (उभयपदी) |
तुदादिगणः |
त्रुट् दृ दिश् |
शः (अ) शः (अ) शः (अ) |
ति ते ते, ति |
त्रुटति (परस्मैपदी) आद्रियते (आत्मनेपदी) दिशति, दिशते (उभयपदी) |
रुधादिगणः |
छिदिर् इन्धि भिद् |
श्नम् (न) श्नम् (न) श्नम् (न) |
ति ते ते, ति |
छिनत्ति (परस्मैपदी) इन्धे (आत्मनेपदी) भिनत्ति, भिन्ते (उभयपदी) |
तनादिगणः |
तन् कृ |
(उ) (उ) (उ) |
ति, ते |
तनोति (परस्मैपदी) तनुते (आत्वनेपदी) करोति, कुरुते (उभयपदी) |
क्र्यादिगणः |
क्लिश् वृ क्रि |
श्ना (ना) श्ना (ना) श्ना (ना) |
ति ते ते, ति |
क्लिश्नाति(परस्मैपदी) वृणीते(आत्मनेपदी) क्रीणाति, क्रीणीते (उभयपदी) |
चुरादिगणः
|
चिन्त् तंत्र चुर् |
णिच् + शप् (अय) णिच् + शप् (अय) णिच् + शप् (अय)
|
ति ते ते, ति |
चिन्तयति (परस्मैपदि) तन्त्रयते (आत्मनेपदि) चोरयति, चोरयते (उभयपदि) |