विशेषणविशेष्याणि।

द्वितीयोध्यायः।

विशेषणविशेष्याणि।

वाक्यम् अनेकप्रकारं भवति। कानिचन वाक्यानि पठतु।

बालः क्रीडति।

बालिका फलं खादति।

सीता नृत्यति।

रोहिणी श्लोकम् आलपति।

युवा लेखनीं क्रीणाति।

रामः अर्थं जानाति।

एतेषां वाक्यानां अवयवाः के सन्ति? सर्वेषु कर्तारः क्रियाः च सन्ति। केषुचित् कर्माणि च सन्ति। अधोदत्तानि वाक्यानि पठतु।

निपुणः बालः क्रीडति।

सुन्दरी सीता नृत्यति।

समर्थः रामः।

अत्र को भेदः अत्र कर्तृणां विशेषणानि भवन्ति निपुणः सुन्दरी समर्थः इति। बालः क्रीडति इत्यत्र साधारणः बालः क्रीडति इत्यर्थः। अत्र निपुणः इति विशेषणत्वात् निपुणत्वविशिष्टः बालः क्रीडति इत्यर्थः। निपुणत्वं तु बालस्य विशेषणं भवति। एतत् विशेषणं तु तस्य बालस्य इतरेभ्यः बालेभ्यः विशेषतां सूचयति। अतः निपुणः इति विशेषणम्। विशेषणेन युक्तं पदं विशेष्यं भवति। अतः बालः इति विशेष्यम्। एवं सुन्दरी, समर्थः इति पदे विशेषणे। तथा सीता, रामः इति पदे विशेष्ये च।

अभ्यासः – अधोदत्तेषु विशेषणानि चित्वा लिखत।

  1. समीचीना लेखनी ।

  2. निर्धनः जनः।

  3. उन्नतः वृक्षः।

  4. नुतनं युतकम्।

  5. सरसा कथा।

  6. मनोहरं पुष्पम्।

  7. सुन्दरः पुरुषः।

  8. रम्या नगरी।

  9. स्फुटः आशयः।

10.स्वच्छं वस्त्रम्।

विशेषणविशेष्ययोः समानलिङ्गत्वम्।

 

विशेषणपदं विशेष्यपदस्य लिङ्गमनुसरति । अर्थात् विशेष्यं यल्लिङ्गे भवति तल्लिङगे एव विशेषणमपि भवेत्।

 

उदाहरणानि।

श्रेष्ठः पुरुषः।

श्रेष्ठा वनिता।

श्रेष्ठं पुस्तकम्।

सुन्दरः युवा।

सुन्दरी युवतिः।

सुन्दरं पुष्पम्।

उत्तमः बालः।

कृशा बालिका।

मधुरं फलम्।

 

अभ्यासः – विशेष्यमनुसृत्य विशेषणं योजयतु।

  1. .................... नदी। (दीर्घ)

  2. .................... बालः। (स्थूल)

  3. .................... शाटिका।(नूतन)

  4. .................... चित्रम्। (सुन्दर)

  5. .................... वनम्। (विजन)

  6. .................... पुरुषः। (उत्तम)

 

विशेषणविशेष्ययोः समानवचनत्वम्।

विशेष्यं यद्वचने भवति विशेषणमपि तद्वचने भवेत्।

 

उदाहरणानि।

एकवचनम्      द्विवचनम्         बहुवचनम्

निपुणः बालः    निपुणौ बालौ      निपुणाः बालाः

उत्तमा स्त्री       उत्त्मे स्त्रियौ       उत्तमाः स्त्रियः

मनोहरं पुष्पम्    मनोहरे पुष्पे      मनोहराणि पुष्पाणि

 

विशेषणविशेष्ययोः समानविभक्तित्वम्।

विशेषणविशेष्ययोः लिङ्गसमानता वचनसमानता च यथा भवतः तथा विभक्तिसमानता अप्यस्ति। अर्थात् विशेष्यस्य या विभक्तिः भवति सा विभक्तिरेव विशेषणस्यापि भवेत्।

 

उदाहरणानि।

प्रथमा          समर्थः बालकः पठति ।

द्वितीया        समर्थं बालकं अभिनन्दति ।

तृतीया         समर्थेन बालेन आशयः कथ्यते ।

चतुर्थी         समर्थाय बालाय पारितोषिकं ददाति ।

पञ्चमी         समर्थात् बालात् अर्थं शृणोति ।

षष्ठी           समर्थस्य बालस्य नाम कृष्ण इति ।

सप्तमी         समर्थे बाले सर्वे स्निह्यति ।

समानलिङ्गत्वं समानवचनत्वं च।

 

विशेषस्यसमानविभक्तित्वं विशेषणस्य। यल्लिङ्गं यद्वचनं या च विभक्तिः विशेषस्य । तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्यापि ।

 

मिश्रोदाहरणानि पठतु ।

  1. आतिथेयः सर्वान् बान्धवान् आहूय उक्तवान् ।

  2. सज्जनः दुष्टान् जनान् सर्वथा परिहरति ।

  3. तीक्ष्णया छुरिकया अहं व्रणिता ।

  4. सुन्दरे सायंकाले सः स्वगृहं प्रत्यागतवान् ।

  5. सः मित्राय सुरेन्द्राय धनं ददाति ।

  6. एका महत्वपूर्णा घटना समभवत् ।

  7. समीपात् ग्रामात् आगतः जनः उत्तमः भवति ।

  8. समीचीनस्य उत्तरस्य कृते पूर्णाङ्कानि लभ्यन्ते ।

  9. लवकुशौ श्रेष्ठौ बालकौ स्तः ।

  10. उन्नतात् वृक्षात् पर्णानि पतन्ति ।

अभ्यासः – उचितविशेषरूपाणि योजयतु ।

  1. ..................... इयं गङ्गा पवित्रा भवति । (अमृतजल)

  2. ..................... अभ्यासः परीक्षार्थं भवेत् । (प्रायोगिक)

  3. ग्रामे .................... विद्यालयः अस्ति । (प्राथमिक)

  4. ..................... उपदेशेन नीतिं ज्ञास्यामः । (नैतिक)

  5. ..................... छात्राय प्रतिफलं ददाति । (सेव्यमान)

  6. ..................... वृक्षात् फलानि पतन्ति । (कम्पमान)

  7. ..................... मातृभूम्यै सेवां कुर्मः । (रक्षणीया)

  8. ..................... आशयैः सम्पुष्टं पुस्तकम् । (भिन्न)

  9. ..................... स्थलाः केरलेषु वर्तन्ते । (दर्शनीय)

  10. ...................... पुरुषौ नगरम् आगच्छन्तः । (वीर)

विशेषणस्य त्रैविध्यम् ।

तत्कालविशेषणम्, क्रियाविशेषणम्, पूर्वकालविशेषणम् अथवा स्थिरविशेषणम्।

कानिचन उदाहरणानि पठतु ।

कुलीनः रामः ।

सुन्दरः युवा ।

सत्यसन्धा बालिका ।

कृष्णः चिन्तयन् उत्तरम् अवदत् ।

बालः रुदन् स्वस्य कथां वदति ।

छात्रः हसन् पुरस्कारस्वीकरणाय प्रातिष्ठत ।

मन्त्री सभायां अकस्मात् अगच्छत् ।

नेता घोषयात्रायाः अग्रतः चलति ।

सः तं प्रति असकृत् उवाच ।

कुलीनः रामः इत्यत्र कुलीनः विशेषणपदं रामः इति विशेष्यपदम्। अत्र कुलीनत्वं रामे पूर्वमेवास्ति। कुलीनत्वं स्थिरतया तस्मिन् वर्तते। अतः कुलीनः इति विशेषणं पूर्वकालविशेषणम् अथवा स्थिरविशेषणं भवति। एवं सौन्दर्यम् इति, सत्यसन्धता बालिकायां च । अतः एते विशेषणे स्थिरविशेषणे अथवा पूर्वकालविशेषणे भवतः ।

अथ त्रिषु वाक्येषु, चिन्तयन्, रुदन्, हसन् इत्येतानि तात्कालिकविशेषणानि भवन्ति । चिन्ता, रोदनं, हासश्च अल्पकालिकः अथवा तात्कालिकः भवति । एवम् अन्तिमेषु वाक्येषु अकस्मात् अग्रतः, असकृत् इत्येतानि क्रियाविशेषणानि । क्रियाविशेषणानि प्रायः अव्ययानि भवन्ति।

 

अभ्यासः – विशेषणभेदान् (तात्कालिक – स्थिरविशेषणानि क्रियाविशेषणानि च) निर्दिशत ।

  1. अश्वः शीघ्रं धावति ।

  2. दुर्योधनः क्रुध्यन् ततः जगाम ।

  3. धर्मिष्ठः राजा राज्यं शशास ।

  4. देवः झटिति अप्रत्यक्षोेेsभवत् ।

  5. मुनिः विहसन् इदमब्रवीत् ।

  6. धीरः योद्धा राज्ञा पुरस्कृतः ।

  7. विष्णुः ध्रुवस्य पुरतः आविर्बभूव ।

संख्याशब्दाः अपि विशेषणरूपेण उपयुज्यन्ते ।

 

उदा – एकः पुरुषः/ एका कन्या/ एकं पुष्पम्

द्वौ बालकौ/ द्वे बाले/ द्वे चित्रे

त्रयः अध्यापकाः/ तिस्रः महिलाः/ त्रीणि फलानि

चत्वारः वेदाः/ चतस्रः नद्यः/ चत्वारि दिनानि

एकेन पुरुषेण/ एकया स्त्रिया/ एकेन पुष्पेण

 

क्रियाविशेषणानि कानिचन अव्ययानि ।

अचिरम् अजस्रम् अञ्चसा

आशु ईषद् उच्चैः

तूष्णीम् सपदि सहसा

सुचिरम् सविनयम् सक्रोधम्

सशोकम् ससन्तोषम् साश्चर्यम्।

 

विभक्त्यर्थप्रकरणम्।

विभक्त्यर्थप्रकरणम्।

लिखति।

रामः लिखति।

रामः लेखं लिखति।

रामः कलमेन लेखं लिखति।

रामः मित्राय कलमेन लेखं लिखति।

रामः स्यूतात् कर्गदं गृहीत्वा मित्राय कलमेन लेखं लिखति।

रामः अनुजस्य स्यूतात् कर्गदं गृहीत्वा मित्राय कलमेन लेखं लिखति।

रामः पीठे उपविश्य अनुजस्य स्यूतात् कर्गदं गृहीत्वा मित्राय कलमेन लेखं लिखति।

लिखति

कः लिखति ? - रामः।

किं लिखति ? - लेखम्।

केन लिखति ? - कलमेन।

कस्मै लिखति ? - मित्राय।

कर्गदं कुतः गृहीत्वा लेखं लिखति ? - स्यूतात्।

कस्य स्यूतात् कर्गदं गृहीत्वा लेखं लिखति ? - अनुजस्य।

कस्मिन् उपविश्य लेखं लिखति ? - पीठे उपविश्य।

 

गच्छति।

बालः गच्छति।

बालः विद्यालयं गच्छति।

बालः सैक्किल् यानेन विद्यालयं गच्छति।

बालः पठनाय सैक्किल् यानेन विद्यालयं गच्छति।

बालः गृहात् पठनाय सैक्किल् यानेन विद्यालयं गच्छति।

बालः मातुलस्य गृहात् पठनाय सैक्किल् यानेन विद्यालयं गच्छति।

बालः स्यूते पुस्तकं स्थापयित्वा मातुलस्य गृहात् पठनाय सैक्किल् यानेन विद्यालयं गच्छति।

 

गच्छति।

अत्र कः गच्छति ? - बालः।

कुत्र गच्छति ? - विद्यालयम्।

केन गच्छति ? - सैक्किल् यानेन।

किमर्थं गच्छति ? - पठनाय।

कुतः (कस्मात्) गच्छति ? - गृहात्।

कस्य गृहात् गच्छति ? - मातुलस्य।

कस्मिन् पुस्तकं स्थापयित्वा गच्छति ? - स्यूते।

 

उपरि दत्तेषु वाक्यगणेषु समानतां चिन्तयामः।

रामः लिखति।

बालः गच्छति।

अत्र कः लिखति ? रामः लिखति।

कः गच्छति ? बालः गच्छति।

प्रथमा विभक्तिः।

प्रथमवाक्ये (रामः लिखति) रामः लेखनकार्यं करोति। लिखति इति क्रियायाः कर्ता रामः। अस्मिन् वाक्ये कर्तुः प्राधान्यम्। अतः अस्मिन् वाक्ये कर्तरिप्रयोगः। कर्तरिप्रयोगे कर्ता प्रथमा विभक्तौ भवति। अतः रामः इति प्रथमा विभक्तिः। कर्ता रामः एक एव। अतः प्रथमा एकवचनम्।

द्वितीयवाक्ये (बालः गच्छति) बालः गमनक्रियां करोति। गच्छति इति क्रियायाः कर्ता बालः। अस्मिन् वाक्ये अपि कर्तुः प्राधान्यम्। अतः अत्र कर्तरिप्रयोगः। कर्तरिप्रयोगे कर्ता प्रथमा विभक्तौ भवति। अतः बालः इति प्रथमा विभक्तिः। कर्ता बालः एक एव। अतः प्रथमा एकवचनम्।

द्वितीया विभक्तिः।

रामः लेखं लिखति। बालः विद्यालयं गच्छति अत्र प्रथमोदाहरणे क्रियापदं - लिखति, द्वितीये तु - गच्छति। रामः बालः इति च कर्तृपदम्। रामः किं लिखति ?-लेखम्। बालः कुत्र गच्छति ? - विद्यालयम्। उदाहरणद्वयेsपि कर्तुः क्रियया किञ्चित् फलं जायते। प्रथमे उदाहरणे लेखनक्रियया लेखः फलं, द्वितीये विद्यालयप्राप्तिः फलम्। अथवा लेखनक्रियया रामः लेखरूपं फलम् आप्तुमिच्छति। एवं बालः गमनक्रियया विद्यालयप्राप्तिरूपं फलम् आप्तुमिच्छति। अतः प्रथमे उदाहरणे लेखशब्दः कर्मसंज्ञां प्राप्नोति। द्वितीये विद्यालयशब्दः कर्मसंज्ञां प्राप्नोति। (कर्तुरीप्सिततमं कर्म १..४९) कर्तुः क्रियया आप्तुं इष्टतमं कारकं कर्मसंज्ञं स्यात् इति अर्थः। अतः कर्मकारके विहिता विभक्तिः द्वितीयाविभक्तिः। (कर्मणि द्वितीया २..) अत्र लेखशब्दस्य लेखम् इति विद्यालयशब्दस्य विद्यालयम् इति च एकवचनरूपम्। लिङ्गवचनमनुसृत्य भेदाः सन्ति इति बोध्यम्।

उदाहरणम् -

पुंल्लिङ्गशब्दानां द्वितीयाविभक्तिरूपाणि।

गजं/ गजौ/ गजान् ।

कविं/ कवी/ कवीन् ।

गुरुं/ गुरू/ गुरून् ।

पितरं/ पितरौ/ पितृृन् ।

..................इत्यादयः।

स्त्रीलिङ्गशब्दानां द्वितीयाविभक्तिरूपाणि-

बालिकां/बालिके /बालिकाः।

नदीं/ नद्यौ/ नदीः।

मातरं/ मातरौ/ मातृः।

..................इत्यादयः।

नपुंसकलिङ्गशब्दानां द्वितीयाविभक्तिरूपाणि -

जलं/ जले/ जलानि।

वनं/ वने/ वनानि।

..................इत्यादयः।

एतानि उदाहरणानि पठामः -

. बालः गजं पश्यति।

     माता पुत्रम् आह्वयति।

     भक्तः देवीं वन्दते।

     तातः पत्रिकां पठति।

                        खपतिः पत्नीं वदति।

                                    राजा मन्त्रिणं मन्त्रयति।

                                    दुष्प्रभुः सेवकं गर्जति।

                                                         ग. राधिका विद्यालयं गच्छति।

                                                                            तातः गृहं प्रविशति।

                                                                            वानरः वृक्षम् आरोहति।

                                                                            कृषकः हलं केदारं नयति।

अत्र प्रतिवर्गं कर्मपदानां विभिन्नार्थः अस्तीति ज्ञायते। कवर्गे विद्यमानानां कर्मपदानामर्थस्वरूपे ऐकरूप्यं दृश्यते तथा ख वर्गे विद्यमानानां कर्मपदानाम् (पत्नीं, मन्त्रिणं, सेवकं) अर्थस्वरूपेपि ऐकरूप्यमस्ति। एवं ग वर्गे अन्तर्भूतानां कर्मपदानामपि (विद्यालयं, गृहं, वृक्षं, केदारं) अर्थस्वरूपे ऐकरूप्यमस्ति। अतः द्वितीयाविभक्तेः अर्थः त्रिप्रकारः इति ज्ञातव्यम्।

केषाञ्चन अव्ययपदानां योगे उपसर्गपूर्वकधातूनां योगेSपि द्वितीयाविभक्तिः स्यात् इति नियमः अस्ति।

उदाहरणाय -

. परितः - इत्येतस्य शब्दस्य योगे (सर्वासु दिक्षु इत्यर्थः)।

     मम गृहं परितः वृक्षाः सन्ति।

     कृष्णं परितः गोपिकाः तिष्ठन्ति।

. उभयतः - इत्यस्य योगे (द्वयोः पार्श्वयोः इत्यर्थः)।

     मम विद्यालयम् उभयतः सस्यानि सन्ति।

     उत्पीठिकाम् उभयतः आसन्दाः सन्ति।

. उप, अनु, अधि, आङ् इति उपसर्गपूर्वकानां वस् धातोः योगे द्वितीया स्यात्।

    (उपान्वध्याङ्वसः १..४८)

    यथा - वानरः वृक्षात् उपवसति / अनुवसति / अधिवसति / आवसति।

   वयं ग्रामम् उपवसामः / अनुवसामः / अधिवसामः / आवसामः।

    उपसर्गाः न प्रयुज्यन्ते तर्हि - वानरः वृक्षे वसति, वयं ग्रामे वसामः।

. अधि - इत्युपसर्गपूर्वकाणां शीङ्, स्था, आस् एतेषां धातूनामाधारः कर्म स्यात्। अतः द्वितीया विभक्तिः प्रयोक्तव्या। (अधिशीङ्स्थासां कर्म १..४६)

     उदा- महाराजः तल्पम् अधिशेते।

    हरिः वैकुण्ठम् अधिशेते।

   दशरथः अयोध्याम् अध्यास्ते।

    अधि न प्रयुज्यते तर्हि तल्पे, वैकुण्ठे अयोध्याम् इति सप्तमी भवितुमर्हति।

. केचन धातवः द्विकर्मकाः सन्ति। अर्थात् केषाञ्चन धातूनां प्रयोगे प्रधानकर्म अप्रधानकर्म च भवेत्।

    बालः पुस्तकं पठति इत्यत्र कर्म एकमेव – पुस्तकम्। किन्तु, बालः अध्यापकं प्रश्नं पृच्छति इत्यत्र कर्मद्वयमस्ति - अध्यापकं, प्रश्नं च। प्रश्नः प्रधानकर्म, अध्यापकः  अप्रधानकर्म। अत्र प्रच्छिधातुः द्विकर्मकः भवति। एतत् द्विकर्मकं वाक्यम्। द्विकर्मकधातूनां प्रयोगे अप्रधानकर्म इतरकारकैः अविवक्षितं तर्हि तस्य कर्मसंज्ञा विहिता।

(अकथितं च १..५१)

कानिचन उदाहरणानि -

याचकः मातरं भिक्षां याचते। भिक्षा - प्रधानकर्म, माता - अप्रधानकर्म।

माता बालिकां कथां वदति। कथा - प्रधानकर्म, बालिका - अप्रधानकर्म।

कृषकः वृषभं केदारं नयति। वृषभः - प्रधानकर्म, केदारः - अप्रधानकर्म।

छात्रः अध्यापकं क्षमां प्रार्थयते।क्षमा - प्रधानकर्म, अध्यापकः - अप्रधानकर्म।

६. इतराणि कानिचित् उदाहरणानि पश्यामः।

    . बालः विद्यालयं गच्छति।

        पिता बालं विद्यालयं गमयति। (गन्तुं प्रेरयति)

    . शिशुः ओदनं भुङ्क्ते।

        माता शिशुम् ओदनं भोजयति। (भोक्तुं प्रेरयति)

    . रमा पाठं पठति।‌

        गुरुः रमां पाठं पाठयति।

    . वृद्धः उपविशति।

        तरुणः वृद्धम् उपवेशयति।

अत्र प्रत्युदाहरणं प्रथमवाक्यं चिन्तयामः। कर्तारः स्वयमेव तत्प्रवृत्तिं कुर्वन्ति। तथा द्वितीयवाक्यानां विचिन्तने अन्यस्य प्रेरणया एव तत्कार्यं निर्वहन्ति इति पश्यामः। प्रत्युदाहरणं प्रथमवाक्येषु धातवः - गच्छति, भुङ्क्ते, पठति, अपविशति - शुद्धधातवः इत्युच्यन्ते। अण्यन्ता धातवः इति साङ्केतिकसंज्ञा। शुद्धेभ्यो धातुभ्यः प्रेरणार्थे णिच् प्रत्ययः विधीयते। तदा ते प्रेरकक्रियाः। ण्यन्ताः णिच् प्रत्ययान्तः इति भवति । अत्र गमयति, भोजयति पाठयति उपवेशयति इत्येतानि क्रियापदानि।

अण्यन्तानां धातूनां शुद्धधातूनां कर्ता प्रयोज्यकर्ता इत्युच्यते। उपयुक्तेषु उदाहरणेषु बालः, शिशुः, रमा, वृद्धः एते प्रयोज्यकर्तारः। ण्यन्तानां धातूनां प्रेरकधातूनां कर्ता प्रयोजककर्ता इति व्यवह्रियते। अत्र पिता, माता, गुरुः, तरुणः।

एवं गत्यर्थकानाम् अवगमनार्थकानां भक्षणार्थकानां शब्दकर्मकाणाम् अकर्मकाणां च प्रयोज्यकर्ता प्रयोजककर्तुः क्रियां प्रति कर्मसंज्ञको भवति इति नियमेन उदाहरणेषु द्वितीयवाक्येषु बालं शिशुं रमां वृद्धम् इति द्वितीयाविभक्तिप्रयोगः।

(गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ -..५२)

अति उपविशति इति अकर्मकधातुः भवति। अतः वृद्ध उपविशति इत्यत्र कर्म नास्ति। वृद्धः प्रयोज्यकर्ता। तरुणः वृद्धम् उपवेशनार्थं प्रेरयति इत्यतः वृद्धशब्दस्य द्वितीया वृद्धम् इति रूपम्।

. अन्तरा, अन्तरेण इति द्वयोः अव्ययोः योगे द्वितीयाविभक्तिः स्यात्। अन्तरान्तरेण युक्ते (..) अन्तरा - मध्ये इत्यर्थः।

अन्तरा त्वां मां हरिः। तव च मम च मध्ये हरिः इत्यर्थः।

अन्तरेण हरिं न सुखम्। हरिं विना सुखं नास्ति इत्यर्थः।

. विना शब्दस्य योगेsपि द्वितीया तृतीया वा स्यात्।

जलं विना जीवितं न सुकरम्। (जलेन विना जीवितं न सुकरम्।)

तृतीया विभक्तिः - करणकारकम्।

 

रामः कलमेन लेखं लिखति।

बालः सैकिल् यानेन विद्यालयं गच्छति।

माता कर्तर्या शाकं कर्तयति।

खगः पक्षाभ्यां डयते।

रामः कलमेन लेखं लिखति इत्यत्र कलमेन इति पदं करणम्। यस्य सत्वे क्रिया प्रचलति यस्य अभावे क्रिया न प्रचलति तत् करणम्। क्रियायाः जनकत्वे अत्यन्तोपकारकं कारकं करणम्। अत्र लिखति इति क्रियायाः जनकत्वे कलमम् अत्यन्तोपकारकं भवति। अतः कलमस्य करणसंज्ञा। (सूत्रम् - साधकतमं करणम् - ..४२)। तेन करणस्य कलमशब्दस्य तृतीयाविभक्तिः भवति।(सूत्रम् - कर्तृकरणयोस्तृतीया - ..१८)। द्वितीयोदाहरणे बालस्य गमनक्रियायां सैकिल् यानं करणम्। अतः तृतीया विभक्तिः। 

कर्तृकरणयोः तृतीयाविभक्तिः कार्या। कर्मणिप्रयोगस्य कर्तृपदे करणे च तृतीयाविभक्तिः।

यथा - रामेण बाणेन हतो बाली। (सूत्रम् - कर्तृकरणयोस्तृतीया - ..१८)

           बालकः मित्रेण सह आगच्छति।

           सीता रामेण सह गच्छति।

सहार्थेन युक्ते अप्रधाने तृतीया। अत्र प्रथमे उदाहरणे मित्रं च कर्ता भवति। किन्तु तत्र बालकः इति प्रधानकर्ता, मित्रम् अप्रधानकर्ता च भवति। अतः मित्रशब्दस्य तृतीयाविभक्तिः। (सूत्रम्- सहयुक्तेsप्रधाने -..१९)

सहशब्दस्य पर्यायेषु (साकं, सार्धं, समं) अपि तृतीयाविभक्तिः।

विद्यया ज्ञानं वर्धते। दुःखेन सीदति हेत्वर्थे तृतीया। हेतुः नाम करणम्। अत्र ज्ञानस्य हेतुः विद्या अतः हेत्वर्थे विद्यायाः तृतीयाविभक्तिः। (सूत्रम् - हेतौ २..२३)

देवेन विना तृणमपि न चलति। पृथक्, विना, नाना इत्येतैः योगे तृतीया भवति, पञ्चमी द्वितीया च।

यथा - देवात् विना तृणमपि न चलति।

देवं विना तृणमपि न चलति।

(सूत्रम् - पृथग्विनानानाभिस्तृतीयान्यतरस्याम्- ..३२)

प्रकृत्या चारुः।

प्रायेण याज्ञिकः।

गोत्रेण गार्ग्यः।

प्रकृत्यादि शब्देभ्यः तृतीया विभक्तिः। (प्रकृत्यादिः कश्चन गणः) वार्तिकम् - प्रकृत्यादिभ्यः उपसंख्यानम्।

अलं श्रमेण।

अलं कोलाहलेन (निषेधार्थः)

अलं शब्दयोगे प्रयोजनार्थे च तृतीया।

प्रयोजनस्यार्थे - किं तया विद्यया या अर्थकरी न स्यात्।

कि गतेन वयसा।

वर्षत्रयेण वैद्यशास्त्रमधिगतम्।

मासेनैकेन मातुः परिचर्याम् अकरवम्।

फलप्राप्तिः द्योत्ये कालाध्वनोरत्यन्तसंयोगे तृतीया। कालादि वाच्ये सति फलप्राप्तिः अत्र आवश्यकम्। फलप्राप्तिः नास्ति चेत् द्वितीया।

अत्र वर्षत्रयं इति कालवाचि। वैद्यशास्त्रं पूर्णतया अधिगतम् इत्यत्र फलप्राप्तिः अस्ति। अतः अत्र तृतीया। फलप्राप्तिः नास्ति चेत् वर्षत्रयम् इति द्वितीया एव भवति।

सूत्रम् - अपवर्गे तृतीया -..

         अक्ष्णा काणः। पादेन पङ्गुः।

अवयवस्य विकृतिः (विकृताङ्के) तृतीयया एव द्योतयति। अक्ष्णा काणः इत्यत्र अक्षिसंबन्धिकाणत्वविशिष्टः इत्यर्थः। (सूत्रम् - येनाङ्गविकारः २..२०)

 

चतुर्थीविभक्तिः -सम्प्रदानकारकम्।

 

वाक्यानि पठतु -

रामः मित्राय कलमेन लेखं लिखति।

आचार्यः शिष्याय पुस्तकं ददाति।

राजा विप्राय गां ददाति।

भिक्षवे नाणकं यच्छति।

बालकाय मोदकं यच्छति।

 

अत्र अधोरेखाङ्कितानां पदानां समानतां पश्यामः। यत्र दानक्रियायाः फलं प्राप्नोति तत्र सम्प्रदानसंज्ञा चतुर्थी विभक्तिः च भवति।

(सूत्रम् - कर्मणा यमभिप्रैति स सम्प्रदानम् १..३२, चतुर्थी सम्प्रदाने २..१३)

प्रथमोदाहरणे रामः कर्ता। लेखं कर्म। कर्मणा सम्बन्धुं मित्रम् अभिप्रैति। अतः मित्रं सम्प्रदानं भवति। तस्माद् अत्र चतुर्थीविभक्तिः।

एवं सम्प्रदानस्य अन्यानि उदाहरणानि पश्यामः-

राजा युद्धाय संनह्यते।(निमित्तार्थे)

(क्रियाफलं यस्मिन् प्राप्तुम् इच्छति सोपि सम्प्रदानसंज्ञाः भवन्ति।)

(वार्तिकम्- क्रियया यमभिप्रैति स सम्प्रदानम्।)

हरिः भक्ताय मोक्षं धारयति।

सुरेशः कृष्णाय शतं धारयति।

(अत्र धारणार्थे सम्प्रदानसंज्ञा)

(सूत्रम् - धारेरुत्तमर्णः १..३५)

हरये भक्तिः रोचते।

बालाय पयोहिमं रोचते।

भानवे नमस्कारः रोचते।

(अत्र रुच्यर्थे सम्प्रदानम्)

(सूत्रम् - रुच्यर्थानां प्रियमाणः १..३४)

मालाकारः पुष्पेभ्यः स्पृहयति।

(स्पृह् धातोः प्रयोगे सम्प्रदानम्)

(सूत्रम् - स्पृहेरीप्सितः १..३६)

पापाय परपीडनम् (अत्र समर्थार्थे सम्प्रदानम्) (वार्तिकम् - उत्पातेन श्राव्यमाने चतुर्थी वक्तव्या।)

रामः स्नानाय गच्छति।

राजा यागाय याति।

(तुमुन्नन्तस्य धातोः स्थाने भविष्यद्काले चतुर्थीविभक्तिः)

यथा - ध्रुवः सिंहासने उपवेष्टुम् इच्छति - इत्यत्र ध्रुवः सिंहासने उपवेशनाय इच्छति।

(सूत्रम् - तुमर्थाच्य भाववचनात् २..१५)

गणेशाय नमः। यजमानाय स्वस्ति।

(नमः, स्वस्ति, स्वाह, स्वधा, अलम्, वषट् शब्दयोगे च चतुर्थीविभक्तिः स्यात्)

(सूत्रम् - नमः स्वस्तिस्वाहास्वधालम्वषड्योगाच्च २..१६)

कंसः कृष्णाय क्रुध्यति।

मन्दमतिः बुद्धिमते असूयति।

(क्रुध्, द्रुह्, ईर्ष्या, असूया इत्यादीनां धातूनां योगे चतुर्थी भवति। यं प्रति एते धातवः भवति सा सम्प्रदानसंज्ञा।)

(सूत्रम् - क्रुद्धद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः १..३७)

भक्तिः ज्ञानाय कल्पते।

साधोः शिक्षा गुणाय कल्पते। (क्लृप् धातोः तात्पर्यार्थः)

(वार्तिकम् - क्लृपि संपद्यमाने च)

यूपाय दारुः।

कुण्डलाय हिरण्यम्।

(उपकार्योपकारकभावः - द्वयोः संबन्धे विवक्षिते यत् उपकार्यं भवति तत्र चतुर्थीविभक्तिः भवति।)

(वार्तिकम् - तादर्थे चतुर्थी वाच्या)

 

पञ्चमी विभक्तिः - अपादानकारकम्।

 

रामः स्यूतात् कर्गदं गृहीत्वा मित्राय कलमेन लेखं लिखति।

बालः गृहात् पठनाय सैकिल् यानेन विद्यालयं गच्छति।

वृक्षात् पर्णं पतति।

अश्वात् पतति।

अपायं नाम वियोगः। यत्र उभयोः वस्तुनोः एकस्य चलनेन वियोगः भवति, तस्य वियोगस्य आश्रयभूतः वस्तुः अपादानसंज्ञया व्यवह्रियते। अपादाने पञ्चमी विभक्तिः।

अत्र वृक्षात् पर्णं पतति इत्यत्र वृक्षपर्णयोः वियोगः। वियोगस्य आश्रयभुतः अवधिः वृक्षः। अतः वृक्षस्य अपादानसंज्ञा पञ्चमी विभक्तिश्च भवति।

(सूत्रम् - ध्रुवमपायेsपादानम् १..२४, अपादाने पञ्चमी २..२८)

चोरात् बिभेति।

न मरणात् भीतोsस्मि।

व्याघ्रात् रक्षति।

पाहि मां मरणात्।

उपर्युक्तेषु उदाहरणेषु भयोत्पादककार्येषु यस्मात् भयं, भक्ति, रक्षाकार्येषु यस्मात् रक्षां करोति इत्यादि विषयौ स्तः। तदुभयमपि पञ्चमी विभक्तौ प्रयुज्यते।

(सूत्रम् - भीत्रार्थानां भयहेतुः१..२५)

शिष्यः आचार्यात् अधीते।

आचार्यात् पादमादत्ते।

मातुलात् व्याकरणम् अधीतम्।

कस्मात् ज्योतिषम् अधिगतम् ?

उदाहरणे आचार्यात् इति पञ्चमी। ग्रहणार्थे आख्याते च नियमपूर्वकस्याः विद्यायाः स्वीकारे यः विद्यां ददाति सः अपादानं भवति।

(सूत्रम् - आख्यातोपयोगे १..२९)

चैत्रात् पूर्वः वैशाखः।

ग्रामात् पश्चात् विद्यालयः।

प्राध्यापकात् अन्यः प्राचार्यः।

अर्जुनात् इतरः कार्तवीर्यः।

संस्कृतात् ऋते संस्कृतिः नास्ति।

उदाहरणेषु विद्यमानानां विशेषतां पश्यामः। पूर्वं परं (पश्चात्) शब्दयोगे, ऋतेयोगे - अन्यार्थे च (आरात्, इतर) पञ्चमी विभक्तिः।

(सूत्रम्- अन्यारादितरर्तदिक्शब्दाsञ्चूत्तरपदाजाहियुक्ते १..२९)

यवेभ्यः गां वारयति।

गुरुः पापेभ्यः छात्रान् वारयति।

प्रवृत्ति विमुखीकरणरूपकवारणार्थक धातोः योगे यस्मात् वारयति तत् पञ्चम्यां भवति। यवेभ्यः गां वारयति इत्यत्र ईप्सितेभ्यः यवेभ्यः वारयति।

(सूत्रम् - वारणार्थानामीप्सितः १..२७)

रामात् विना सीता न गच्छति।

जलात् विना मीनाः न जीवन्ति।

विद्याधनं सर्वधनात् प्रधानम्।

अत्र विना शब्दस्य प्रयोगे पञ्चमी विभक्तिः। विद्याधनं ...... - इत्यत्र उत्कर्षार्थे पञ्चमी।

पृथक्, विना, नाना शब्दयोगे तृतीया, पञ्चमी, द्वितीया च।

(सूत्रम् - पृथग्विनानानाभिस्तृतीयान्यतरस्याम् २..३२)

मूढः अध्ययनात् पराजयते।

अस्मिन् उदाहरणे सोढुम् अशक्यम् इत्यर्थे परा इति उपसर्गयुक्त जि धातोः योगे पञ्चमी विभक्तिः।

(सूत्रम् - पराजेरसोढः १..२६)

गङ्गा हिमालयात् प्रभवति।

पम्पा सह्यपर्वताद् उद्भवति।

प्रभवति, उद्भवति - जन्मस्थाने इत्यर्थे प्रयुक्तजन्मकारणेषु पञ्चमी।

(सूत्रम्- भुवः प्रभवः जनिकर्तुः प्रकृति १..३०)

अद्य प्रभृति ग्रन्थशालां गच्छामि।

मासाद् आरभ्य मेघो वर्षति।

गृहात् बहिः तिष्ठति।

सत्यात् परम्।

मुक्तेः अनन्तरम्।

उदाहरणेषु प्रभृति, आरभ्य, बहिः, ऊर्ध्वम्, परम्, अनन्तरम् इत्येतेषां शब्दानां योगे पञ्चमी विभक्तिः।

अप हरेः।

आ परितोषाद् विदुषाम्।

आमूलात् श्रोतुमिच्छति।

अप, (आङ्), परि इत्यादीनां कर्मप्रवचनीयानां योगे च नाम्ना साकम् अन्वितम् अव्ययं कर्मप्रवचनीयसंज्ञा भवति। अप, , परि इति कर्मप्रवचनीययुक्तानां योगे पञ्चमी।

(सूत्रम् - पञ्चम्यपाङ्परिभिः २..१०)

स्तोकात् मुक्तः।

कतिपयात् प्राप्तः।

अल्पेन मुक्तः।

कृच्छ्रेण मुक्तः।

स्तोक-अल्प-कृच्छ्र-कतिपय शब्दयोगे पञ्चमी तृतीया च भवति।

(सूत्रम् - करणे च स्तोकाल्पकृच्छ्रकतिपयस्थासत्ववचनस्य २..३३)

दूरात् ग्रामस्य।

अन्तिकात् ग्रामस्य।

दूरात् विद्यालयस्य।

दूर शब्दस्य अन्तिकशब्दस्य तत् समानार्थकशब्दानां च योगे पञ्चमी, तृतीया, द्वितीया च भवति।

(सूत्रम् - दूरान्तिकार्थेभ्यो द्वितीया च २..३५)

 

सप्तमीविभक्तिः।

 

अधोनिर्दिष्टानि उदाहरणानि पश्यामः।

बालः आसन्दे उपविशति।

माता स्थाल्याम् ओदनं पचति।

तिलेषु तैलम् अस्ति।

रामः कागदे लेखं लिखति।

अत्र अधोरेखाङ्कितानां शब्दानां विशेषता का ? ते तत्र आधाररूपेण वर्तन्ते। प्रथमवाक्ये बालस्य उपवेशनस्य आधारः भवति आसन्दः। उपवेशनं यस्मिन् भवति सः आधारः। द्वितीयवाक्ये ओदनपाचकवस्तूनि कुत्र वर्तन्ते ? स्थाल्याम्। अतः ओदनस्य आधारः स्थाली। तृतीये तु तैलस्य आधारः तिलानि सन्ति। चतुर्थे वाक्ये रामः कस्मिन् लेखं लिखति ? कागदे। अतः तत्र कागदः एव लेखस्य आधारः। उपर्युक्तेषु उदाहरणेषु आसन्द – स्थाली - तिल – कागदशब्दाः आधाररूपेण वर्तन्ते। एवं सर्वेषामपि वस्तूनां कोsपि आधारः भवत्येव। सः आधारः अधिकरणकारकम् इति उच्यते। (आधारोsधिकरणम् १..४५)। इत्थम् आधारभूतानां शब्दानाम् अधिकरणसंज्ञा विधीयते। अधिकरणसंज्ञायां सप्तमीविभक्तिः भवेत्। (सप्तम्यधिकरणे च २..३६)। अतः उक्तेषु उदाहरणेषु आसन्दे, स्थाल्यां तिलेषु कागदे इति सप्तमीविभक्तिः।

आधारः त्रिधा अस्ति - औपश्लेषिकः वैषयिकः अभिव्यापकश्चेति।

. औपश्लेषिकः आधारः - एकदेशव्याप्तिरूपः आधारः औपश्लेषिकः।

उदा - बालः कटे उपविशति। अत्र कटः उपवेशनक्रियायाः आधारः। किन्तु उपवेशनक्रिया कटस्य एकदेशे भवति न तु कृत्स्ने कटे। बालस्य कटस्य च संबन्धः संयोगः। स तु कटस्य एकदेशव्याप्तिरूपः भवति। अतः औपश्लेषिकः आधारः। माता स्थाल्याम् ओदनं पचति इत्यत्र ओदनं कर्म भवति। तत्कर्मनिष्ठक्रियायाः आधारः स्थाली। अत्रापि स्थाल्याः ओदनस्य च संबन्धः एकदेशव्याप्तिरूपः। अतः एतदपि औपश्लेषिकः आधारस्य उदाहरणं भवति।

. वैषयिकः आधारः - विषयतादिसम्बन्धमूलकः आधारः वैषयिकः। उदा - मम पठने इच्छा अस्ति। पठनविषयरूपा इच्छा इत्यर्थः। अत्र पठनम् आधारः। सम्बन्धश्च विषयता, न संयोगः समवायो वा। अतः वैषयिकः आधारः भवति पठनम्।

उदाहरणान्तरं दीयते-

शरीरस्य अलङ्कारे मम अभिरुचिः नास्ति। अलङ्कारः विषयः भवति। अलङ्कारस्य अभिरुचेः च संबन्धः विषयनिष्ठः अस्ति। अतः वैषयिकः आधारः।

आधारः - संयोगसमवायमूलकः सकलावयवव्यक्तिरूपः अभिव्यापकः।

उदा-

तिलेषु तैलम् अस्ति।

अत्र आधारः तिलानि। तिलानां सकलावयवेषु तैलम् अस्ति। तिलतैलयोः सम्बन्धः समवायः भवति। अतः अयम् अभिव्यापकः आधारः। तथा - सर्वस्मिन् आत्मा अस्ति।-

क्षीरे घृतं विद्यते। - इत्यादि उदाहरणेषु अपि सकलावयवव्याप्तिरूपः सम्बन्ध अस्ति इत्यतः अभिव्यापकस्य उदाहरणानि भवन्ति।

अन्येषु केषुचन सन्दर्भेषु अपि सप्तमीविभक्तिः भवेत्। केचन सन्दर्भाः दत्ताः।

. यस्य क्रियया क्रियान्तरं लक्ष्यते तदा।

उदा - गोषु दुह्यमानासु गतः। देवदत्तः कदा गतः इति प्रश्नस्य समाधानरूपेण वदति - गोषु दुह्यमानासु गतः- इति। देवदत्तस्य गमनकालं न जानाति। तदेव प्रश्नस्य साङ्कत्यम्। गोदोहनस्य कालः सर्वैः ज्ञायते। अतः गोदोहनकालज्ञापनक्रियया गमनकालं ज्ञापयति- देवदत्तः गोषु दुह्यमानासु गतः इति। दोहनकाले एव गमनं सम्भवति। अतः दोहनक्रियया क्रियान्तरं गमनक्रियां सूचयति। यस्यक्रियया क्रियान्तरं लक्ष्यते तदा सप्तमी स्यात्। (यस्य च भावेन भावलक्षणम् २..३७)

अन्यानि कानिचन उदाहरणानि अपि दत्तानि।

सूर्ये उदयमाने अन्धकारः निर्गतः।

लेखे लिख्यमाने मातुलः आगतः।

अत्र सूर्यस्य उदयसमये अन्तकारस्य निर्गमनं सूर्यस्य उदयक्रियया अन्धकारस्य निर्गमनक्रिया लक्ष्यते। अतः उदयक्रियायाः आश्रयरूपसूर्यशब्दस्य सप्तमी विभक्तिः। उदयमानशब्दस्तु सूर्यस्य विशेषणरूपेण वर्तते इत्यतः सोsपि सप्तम्याम्। तथा मातुलस्य आगमनं लेखनसमये सम्भवति। लेखनक्रियया आगमनरूपं क्रियान्तरं लक्ष्यते इत्यतः लेखनक्रियायाः आश्रयभुतः लेखशब्दः सप्तमीविभक्तौ स्यात्। लेखनक्रियासूचकं लिख्यमानपदं विशेषणम् इत्यतः तदपि सप्तम्याम्। एतादृश प्रयोगाः सतिसप्तमी प्रयोगः इत्यपि व्यवह्रियन्ते।

. स्निह्यति, विश्वसिति इत्येतयोः धात्वोः प्रयोगे।

स्निह्यति, विश्वसिति इत्येतयोः धात्वोः प्रयोगः यत्र भवति तत्र स्नेहस्य विश्वासस्य च यत् पात्रं तस्य ,सप्तमीविभक्तिः भवति।

उदा-

माता पुत्रे विशेषतः स्निह्यति।

अहं मम राष्ट्रे स्निह्यामि।

रावणः स्वशक्त्याम् अधिकं विश्वसितवान्।

तातस्य मयि बहुविश्वासः अस्ति।

joomla template